Tuesday, 26 July 2016

बुध स्तोत्रम

बुध स्तोत्रम पीताम्बर: पीतवपु किरीटी,चतुर्भुजो देवदु:खापहर्ता ।
https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
धर्मस्य धृक सोमसुत: सदा मे,
सिंहाधिरुढ़ो वरदो बुधश्च ।।1।।
प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम ।
सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम ।।2।।
सोमसुनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित: ।
सदा शान्त: सदा क्षेमो नमामि शशिनन्दनम ।।3।।
उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युति: ।
सूर्यप्रियकरोविद्वान पीडां हरतु मे बुधं ।।4।।
शिरीषपुष्पसंकाशं कपिलीशो युवा पुन: ।
सोमपुत्रो बुधश्चैव सदा शान्तिं प्रयच्छतु ।।5।।
श्याम: शिरालश्चकलाविधिज्ञ:,
कौतूहली कोमलवाग्विलासी ।
रजोधिको मध्यमरूपधृक स्या-दाताम्रनेत्रो द्विजराजपुत्र: ।।6।।
अहो चन्द्रासुत श्रीमन मागधर्मासमुदभव: ।
अत्रिगोत्रश्चतुर्बाहु: खड्गखेटकधारक: ।।7।।
गदाधरो नृसिंहस्थ: स्वर्णनाभसमन्वित: ।
केतकीद्रुमपत्राभ: इन्द्रविष्णुप्रपूजित: ।।8।।
ज्ञेयो बुध: पण्डितश्च रोहिणेयश्च सोमज: ।
कुमारो राजपुत्रश्च शैशवे शशिनन्दन: ।।9।।
गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा ।
सौम्य: सौम्यगुणोपेतो रत्नदानफलप्रद: ।।10।।
एतानि बुधनामानि प्रात: काले पठेन्नर: ।
बुद्धिर्विवृद्धितां याति बुधपीडा न जायते ।।11।।
(इति मंत्रमहार्णवे बुधस्तोत्रम)

Wednesday, 20 July 2016

श्री नवग्रह तांत्रिक मंत्र: श्री नवग्रह देवाय नमः श्री नवग्रह देवाय नमः

श्री नवग्रह तांत्रिक मंत्र: श्री नवग्रह देवाय नमः श्री नवग्रह देवाय नमः
https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
सभी प्रकार की पूजा में नवग्रहों की पूजा प्रायः नवग्रहों की शांति के .. ... .महीना भर रोज एक घंटे का पूजन और जप स्वयं करने के ... अच्छे साधक अपनी साधना श्री गणेश और नवग्रह पूजन व साधना से ही आरंभ करते हैं, फिर निश्चिंत होकर आगे चलते जाते हैं। नवग्रह साधना प्रायः दो सप्ताह में पूर्ण हो जाती है। शनि या राहु केतु से आरंभ करें। शनिवार के दिन से फिर रवि, सोम, मंगल, बुध, वृहस्पति, शुक्र और वापस शनिवार को उक्त तीन उग्रग्रहों में से एक या दो की कर लें। एक की करें, तो की ठीक। पुनः शेष ग्रहों का जप दिनानुसार पूर्ण करता जाए। इससे समान रूप से सभी ग्रहों की समान रूप से शांति हो जाती है।
साधना — प्रत्येक ग्रह का सामान्य पंचोपचार पूजन कर इन्हीं मंत्रों का निश्चित संख्यानुसार जप कर लें। माला रूद्राक्ष की, बृहस्पति में चंदन, चंद्रमा में चंदन की, शेष में रूद्राक्ष है। प्रत्येक ग्रह का दिन के अनुसार आधा-आधा जप दो बार (दो सप्ताह) में पूर्ण कर लें। हर बार हवन करता जाए, तो इससे वर्ष भर की ग्रह शांति हो जाती है। अधिक समय तक भी इसका प्रभाव बना रह सकता है। ग्रहों के विषय में इतनी भी चिंता आवश्यक नहीं है, जितना भय दिखाया गया है।
साधना की तैयारी — बाजार से नवग्रहों का एक चित्र तथा नवग्रह पूजन की सामग्री ले आएं, जो कम से कम दो बार पूजन के काम आ सके। प्रथम सप्ताह आधी, फिर दूसरे सप्ताह आधी प्रयोग कर लें।
साधना विधान
केतु साधना — शनिवार के दिन पहली पूजा केतु की करके ११,००० जप कर लें। अगले शनिवार पुनः केतु साधना करके १०,००० जप कर लें। कर सकें, तो दिन भर में सायंकाल तक २१,००० एक ही दिन में पूर्ण करके हवन कर लें या दूसरे शनिवार के साथ हवन करें। तत्पश्चात प्रसाद बांट दें।
राहु — पूर्वोक्त मंत्र से शनिवार के दिन ही राहु की पूजा चित्र पर करके इसका भी पूर्वानुसार जप और हवन कर लें। २१,००० के जप से सारे दोष स्वयं मिट जाते हैं। अधिक प्रपंच में पड़ने से कठिनाई अधिक है। सरल विधान ही ठीक रहता है। तत्पश्चात प्रसाद बांट दें।
शनि — अगले शनिवार को शनिदेव के चित्र पर शनि पदार्थों से पूजा करके शनि का भी जप एक या दो शनिवार में पूर्ण कर हवन कर दें और प्रसाद बांट दें।
सूर्य — रविवार के दिन सूर्यदेव की पूजा करके उनका भी जप एक या दो रविवार में पूरा करके हवन करके प्रसाद बांट दें। पूजा लाल पदार्थों से करें, हवन में थोड़ी सूर्य पूजा सामग्री मिला लें। यही विधि सभी ग्रहों के हवन में करनी होगी।
चंद्र — सोमवार को चंद्रमा की पूजा जप हवन करके एक या दो सेमवार में वही २१,००० जप पूर्ण करके बच्चों में प्रसाद बांट दें। गरीबों में दे दें।
मंगल — मंगलवार के दिन मंगल की पूजा (२१,०००) हवन पूरा करके प्रसाद बांट दें।
बुध — बुधवार के दिन बुधमंत्र से पूजा कर बुध का हवन कर दें। सभी का जप २१,००० ही करना है। यही श्रेष्ठ संख्या है।
गुरु — बृहस्पतिवार को गुरु की पूजा जप हवन करके प्रसाद बांट दें, जप वही २१,०००।
शुक्र — शुक्रवार के दिन शुक्रमंत्र से शुक्र पूजा जप (२१,०००) हवन कर प्रसाद बांट दें, हो गई नवग्रह साधना।
फल - स्वयं किया हुआ जप हवन दूसरे के द्वारा किए हुए से ६ गुना अधिक फल देता है।
साधना मंत्र —,,,रत्न परामर्श के लिए सम्पर्क करे ज्ञानचंद बूंदीवाल M.8275555557,,,
साधना मंत्र संख्या ग्रह दिन
ॐ कें केतवे नमः १७,००० केतु शनि
ॐ शं शनैश्चराय नमः २३,००० शनि शनि
ॐ रां राहवे नमः १८,००० राहु शनि
ॐ ऐं घृणि सूर्याय नमः ७,००० सूर्य रवि
ॐ सों सोमाय नमः ११,००० सोम चंद्र
ॐ अं अंगारकाय नमः १०,००० मंगल मंगल
ॐ बुं बुधाय नमः ८,००० बुध बुध
ॐ बृं बृहस्पतये नमः ११,००० बृहस्पति गुरु
ॐ शुं शुक्राय नमः १६,००० शुक्र शुक्र



Sunday, 17 July 2016

रुद्राक्ष उपनिषद् रुद्राक्षजाबालोपनिषत्

रुद्राक्ष उपनिषद् रुद्राक्षजाबालोपनिषत्

https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557रुद्राक्ष उपनिषद् रुद्राक्षजाबालोपनिषत्

रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।
https://www.blogger.com/blogger.g?blogID=1708399323625578909#allposts
प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्च्ह कथं
रुद्राक्षोत्पत्तिः । तद्धारणात्किं फलमिति । तं होवाच
भगवान्कालाग्निरुद्रः । त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् ।
तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।
सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण
दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं
फलमत ऊर्ध्वं वक्तुं न शक्नोमि । तत्रैते श्लोका भवन्ति ।

कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः ।
कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ १॥

दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।
भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥ २॥

तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३॥

भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् ।
लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४॥

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ ५॥

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।
धात्रीफलप्रमाणं यच्च्ह्रेष्ठमेतदुदाहृतम् ॥ ६॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।
अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।
वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।
पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥ ९॥

ब्राह्मणो बिभृयाच्च्ह्वेतात्रक्तात्राजा तु धारयेत् ।
पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्च्हूद्रस्तु धारयेत् ॥ १०॥

समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।
कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥ ११॥

व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् ।
स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ १२॥

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।
समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३॥

सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः ।
निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४॥

तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।
शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५॥

षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश ।
मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥ १६॥

अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् ।
द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥ १७॥

सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः ।
मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८॥

केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः ।
सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९॥

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।
सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ २०॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु ।
अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ २१॥

अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।
पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥ २२॥

पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च ।
ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३॥

अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्च्ह
रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति ।
तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं
ब्रूहीति होवाच । तत्रैते श्लोका भवन्ति ॥

एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।
तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥ १॥

द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् ।
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २॥

त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ।
तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३॥

चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।
तद्धारणाcचतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ४॥

पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।
पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥ ५॥

षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६॥

मतिविज्ञानसंपत्तिशुद्धये धारयेत्सुधीः ।
विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७॥

सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८॥

महती ज्ञानसंपत्तिः शुचिर्धारणतः सदा ।
अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥ ९॥

वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा ।
तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ १०॥

नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् ।
तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥ ११॥

दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् ।
दर्शनाच्च्हान्तिजनकं धारणान्नात्र संशयः ॥ १२॥

एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।
तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३॥

रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।
द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ १४॥

त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् ।
तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ १५॥

चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।
सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६॥

मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।
श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥ १७॥

ग्रहणे विषुवे चैवमयने संक्रमेऽपि च ।
दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च ।
रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८॥

रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च ।
तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥ १९॥ इति ॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्च्हाधीहि
भगवन्रुद्राक्षधारणविधिम् । तस्मिन्समये निदाघ
जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ
पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः । अथ
कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच ।
रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्च्हामह इति । अथ
कालाग्निरुद्रः प्रोवाच । रुद्रस्य नयनादुत्पन्ना रुद्राक्षा
इति लोके ख्यायन्ते । अथ सदाशिवः संहारकाले संहारं
कृत्वा संहाराक्षं मुकुलीकरोति । तन्नयनाज्जाता रुद्राक्षा
इति होवाच । तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच ।
तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति
तत्फलमश्नुते । स एष भस्मज्योती रुद्राक्ष इति । तद्रुद्राक्षं
करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं
भवति । तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं
भवति । एकादशरुद्रत्वं च गच्च्हति । तद्रुद्राक्षे शिरसि
धार्यमाणे कोटिगोप्रदानफलं भवति । एतेषां स्थानानां
कर्णयोः फलं वक्तुं न शक्यमिति होवाच । य इमां रुद्राक्षजाबालोपनिषदं
नित्यमधीते बालो वा युवा वा वेद स महान्भवति । स गुरुः सर्वेषां
मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् । एतैरेवार्चनम् ।
तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
शिखायां वा बध्नीत । सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते ।
तस्माच्च्ह्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ।
य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं पापं
नाशयति । मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति ।
षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति । ब्रह्महत्यासुरापान
स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति ।
सर्वतीर्थफलमश्नुते । पतितसंभाषणात्पूतो भवति ।
पङ्क्तिशतसहस्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च
पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥

Sunday, 10 July 2016

शनि-स्तोत्र दशरथकृत

 शनि-स्तोत्र  दशरथकृत विनियोगः   अस्य श्रीशनि-स्तोत्र-मन्त्रस्य कश्यप ऋषिः, त्रिष्टुप छन्दः सौरिर्देवता, शं बीजम्, निः शक्तिः, कृष्णवर्णेति कीलकम्, धर्मार्थ-काम-मोक्षात्मक-चतुर्विध-पुरुषार्थ-सिद्धयर्थे जपे विनियोगः।

कर-न्यासः  शनैश्चराय अंगुष्ठाभ्यां नमः। मन्दगतये तर्जनीभ्यां नमः। अधोक्षजाय मध्यमाभ्यां नमः। कृष्णांगाय अनामिकाभ्यां नमः। शुष्कोदराय कनिष्ठिकाभ्यां नमः। छायात्मजाय करतल-कर-पृष्ठाभ्यां नमः।

हृदयादि-न्यासः- शनैश्चराय हृदयाय नमः। मन्दगतये शिरसे स्वाहा। अधोक्षजाय शिखायै वषट्। कृष्णांगाय कवचाय हुम्। शुष्कोदराय नेत्र-त्रयाय वौषट्। छायात्मजाय अस्त्राय फट्।
दिग्बन्धनः  “ भूर्भुवः स्वः
पढ़ते हुए चारों दिशाओं में चुटकी बजाएं।
ध्यानःनीलद्युतिं शूलधरं किरीटिनं गृध्रस्थितं त्रासकरं धनुर्धरम्। 

चतुर्भुजं सूर्यसुतं प्रशान्तं वन्दे सदाभीष्टकरं वरेण्यम्॥ 

'अर्थात नीलम के समान कान्तिमान, हाथों में धनुष और शूल धारण करने वाले, मुकुटधारी, गिद्ध पर विराजमान, शत्रुओं को भयभीत करने वाले, चार भुजाधारी, शान्त, वर को देने वाले, सदा भक्तों के हितकारक, सूर्य-पुत्र को मैं प्रणाम करता हूँ।

रघुवंशेषु विख्यातो राजा दशरथः पुरा।

चक्रवर्ती विज्ञेयः सप्तदीपाधिपोऽभवत्॥१

कृत्तिकान्ते शनिंज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः।

रोहिणीं भेदयित्वातु शनिर्यास्यति साम्प्रतं॥२

शकटं भेद्यमित्युक्तं सुराऽसुरभयंकरम्।

द्वासधाब्दं तु भविष्यति सुदारुणम्॥३

एतच्छ्रुत्वा तु तद्वाक्यं मन्त्रिभिः सह पार्थिवः।

व्याकुलं जगद्दृष्टवा पौर-जानपदादिकम्॥४

ब्रुवन्ति सर्वलोकाश्च भयमेतत्समागतम्।

देशाश्च नगर ग्रामा भयभीतः समागताः॥५

पप्रच्छ प्रयतोराजा वसिष्ठ प्रमुखान द्विजान्।

समाधानं किमत्राऽस्ति ब्रूहि मे द्विजसत्तमः॥६

प्राजापत्ये तु नक्षत्रे तस्मिन भिन्नेकुतः प्रजाः।

अयं योगोह्यसाध्यश्च ब्रह्म-शक्रादिभिः सुरैः॥७

तदा सञ्चिन्त्य मनसा साहसं परमं ययौ।

समाधाय धनुर्दिव्यं दिव्यायुधसमन्वितम्॥८

रथमारुह्य वेगेन गतो नक्षत्रमण्डलम्।

त्रिलक्षयोजनं स्थानं चन्द्रस्योपरिसंस्थिताम्॥९

रोहिणीपृष्ठमासाद्य स्थितो राजा महाबलः।

रथेतुकाञ्चने दिव्ये मणिरत्नविभूषिते॥१०

हंसवर्नहयैर्युक्ते महाकेतु समुच्छिते।

दीप्यमानो महारत्नैः किरीटमुकुटोज्वलैः॥११

ब्यराजत तदाकाशे द्वितीये इव भास्करः।

आकर्णचापमाकृष्य सहस्त्रं नियोजितम्॥१२

कृत्तिकान्तं शनिर्ज्ञात्वा प्रदिशतांच रोहिणीम्।

दृष्टवा दशरथं चाग्रेतस्थौतु भृकुटीमुखः॥१३

संहारास्त्रं शनिर्दृष्टवा सुराऽसुरनिषूदनम्।

प्रहस्य भयात सौरिरिदं वचनमब्रवीत्॥१४

 

प्राचीन काल में रघुवंश में दशरथ नामक प्रसिद्ध चक्रवती राजा हुए, जो सातों द्वीपों के स्वामी थे। उनके राज्यकाल में एक दिन ज्योतिषियों ने शनि को कृत्तिका के अन्तिम चरण में देखकर राजा से कहा कि अब यह शनि रोहिणी का भेदन कर जायेगा। इसकोरोहिणी-शकट-भेदनऽ कहते हैं। यह योग देवता और असुर दोनों ही के लिये भयप्रद होता है तथा इसके पश्चात बारह वर्ष का घोर दुःखदायी अकाल पड़ता है।

ज्योतिषियों की यह बात मन्त्रियों के साथ राजा ने सुनी, इसके साथ ही नगर और जनपद-वासियों को बहुत व्याकुल देखा। उस समय नगर और ग्रामों के निवासी भयभीत होकर राजा से इस विपत्ति से रक्षा की प्रार्थना करने लगे। अपने प्रजाजनों की व्याकुलता को देखकर राजा दशरथ वशिष्ठ ऋषि तथा प्रमुख ब्राह्मणों से कहने लगे- ‘हे ब्राह्मणों ! इस समस्या का कोई समाधान मुझे बताइए।ऽ॥१-

इस पर वशिष्ठ जी कहने लगे- ‘प्रजापति के इस नक्षत्र (रोहिणी) में यदि शनि भेदन होता है तो प्रजाजन सुखी कैसे रह सकते हें। इस योग के दुष्प्रभाव से तो ब्रह्मा एवं इन्द्रादिक देवता भी रक्षा करने में असमर्थ हैं॥७॥

विद्वानों के यह वचन सुनकर राजा को ऐसा प्रतीत हुआ कि यदि वे इस संकट की घड़ी को टाल सके तो उन्हें कायर कहा जाएगा। अतः राजा विचार करके साहस बटोरकर दिव्य धनुष तथा दिव्य आयुधों से युक्त होकर रथ को तीव्र गति से चलाते हुए चन्द्रमा से भी तीन लाख योजन ऊपर नक्षत्र मण्डल में ले गए। मणियों तथा रत्नों से सुशोभित स्वर्ण-निर्मित रथ में बैठे हुए महाबली राजा ने रोहिणी के पीछे आकर रथ को रोक दिया।

सफेद घोड़ों से युक्त और ऊँची-ऊँची ध्वजाओं से सुशोभित मुकुट में जड़े हुए बहुमुल्य रत्नों से प्रकाशमान राजा दशरथ उस समय आकाश में दूसरे सूर्य की भांति चमक रहे थे। शनि को कृत्तिका नक्षत्र के पश्चात रोहिनी नक्षत्र में प्रवेश का इच्छुक देखकर राजा दशरथ बाण युक्त धनुष कानों तक खींचकर भृकुटियां तानकर शनि के सामने डटकर खड़े हो गए।

अपने सामने देव-असुरों के संहारक अस्त्रों से युक्त दशरथ को खड़ा देखकर शनि थोड़ा डर गया और हंसते हुए राजा से कहने लगा॥८-१४

शनि उवाच-

पौरुषं तव राजेन्द्र ! मया दृष्टं कस्यचित्।

देवासुरामनुष्याशऽच सिद्ध-विद्याधरोरगाः॥१५

मयाविलोकिताः सर्वेभयं गच्छन्ति तत्क्षणात्।

तुष्टोऽहं तव राजेन्द्र ! तपसापौरुषेण च॥१६

वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनन्दनः

शनि कहने लगा- ‘ हे राजेन्द्र ! तुम्हारे जैसा पुरुषार्थ मैंने किसी में नहीं देखा, क्योंकि देवता, असुर, मनुष्य, सिद्ध, विद्याधर और सर्प जाति के जीव मेरे देखने मात्र से ही भय-ग्रस्त हो जाते हैं। हे राजेन्द्र ! मैं तुम्हारी तपस्या और पुरुषार्थ से अत्यन्त प्रसन्न हूँ। अतः हे रघुनन्दन ! जो तुम्हारी इच्छा हो वर मां लो, मैं तुम्हें दूंगा॥१५-१६॥

दशरथ उवाच-

प्रसन्नोयदि मे सौरे ! एकश्चास्तु वरः परः॥१७

रोहिणीं भेदयित्वा तु गन्तव्यं कदाचन्।

सरितः सागरा यावद्यावच्चन्द्रार्कमेदिनी॥१८

याचितं तु महासौरे ! नऽन्यमिच्छाम्यहं।

एवमस्तुशनिप्रोक्तं वरलब्ध्वा तु शाश्वतम्॥१९

प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा।

पुनरेवाऽब्रवीत्तुष्टो वरं वरम सुव्रत ! ॥२०

दशरथ ने कहा- हे सूर्य-पुत्र शनि-देव ! यदि आप मुझ पर प्रसन्न हैं तो मैं केवल एक ही वर मांगता हूँ कि जब तक नदियां, सागर, चन्द्रमा, सूर्य और पृथ्वी इस संसार में है, तब तक आप रोहिणी शकट भेदन कदापि करें। मैं केवल यही वर मांगता हूँ और मेरी कोई इच्छा नहीं है।

तब शनि नेएवमस्तुऽ कहकर वर दे दिया। इस प्रकार शनि से वर प्राप्त करके राजा अपने को धन्य समझने लगा। तब शनि ने कहा- ‘मैं पुमसे परम प्रसन्न हूँ, तुम और भी वर मांग लो॥१७-२०

प्रार्थयामास हृष्टात्मा वरमन्यं शनिं तदा।

नभेत्तव्यं भेत्तव्यं त्वया भास्करनन्दन॥२१

द्वादशाब्दं तु दुर्भिक्षं कर्तव्यं कदाचन।

कीर्तिरषामदीया त्रैलोक्ये तु भविष्यति॥२२

एवं वरं तु सम्प्राप्य हृष्टरोमा पार्थिवः।

रथोपरिधनुः स्थाप्यभूत्वा चैव कृताञ्जलिः॥२३

ध्यात्वा सरस्वती देवीं गणनाथं विनायकम्।

राजा दशरथः स्तोत्रं सौरेरिदमथाऽकरोत्॥२४

तब राजा ने प्रसन्न होकर शनि से दूसरा वर मांगा। तब शनि कहने लगे- ‘हे सूर्य वंशियो के पुत्र तुम निर्भय रहो, निर्भय रहो। बारह वर्ष तक तुम्हारे राज्य में अकाल नहीं पड़ेगा। तुम्हारी यश-कीर्ति तीनों लोकों में फैलेगी। ऐसा वर पाकर राजा प्रसन्न होकर धनुष-बाण रथ में रखकर सरस्वती देवी तथा गणपति का ध्यान करके शनि की स्तुति इस प्रकार करने लगा॥२१-२४

दशरथकृत शनि स्तोत्र

नम: कृष्णाय नीलाय शितिकण्ठ निभाय च।

नम: कालाग्निरूपाय कृतान्ताय वै नम: ॥२५॥

नमो निर्मांस देहाय दीर्घश्मश्रुजटाय

नमो विशालनेत्राय शुष्कोदर भयाकृते॥२६

नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम:

नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते॥२७

नमस्ते कोटराक्षाय दुर्नरीक्ष्याय वै नम:

नमो घोराय रौद्राय भीषणाय कपालिने॥२८

नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते।

सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय ॥२९

अधोदृष्टे: नमस्तेऽस्तु संवर्तक नमोऽस्तु ते।

नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तुते ॥३०

तपसा दग्ध-देहाय नित्यं योगरताय

नमो नित्यं क्षुधार्ताय अतृप्ताय वै नम: ॥३१

ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज-सूनवे

तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात ॥३२

देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगा:

त्वया विलोकिता: सर्वे नाशं यान्ति समूलत:॥३३

प्रसाद कुरु मे सौरे ! वारदो भव भास्करे।

एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबल: ॥३४

 

जिनके शरीर का वर्ण कृष्ण नील तथा भगवान शंकर के समान है, उन शनि देव को नमस्कार है। जो जगत के लिए कालाग्नि एवं कृतान्त रुप हैं, उन शनैश्चर को बार-बार नमस्कार है॥२५

जिनका शरीर कंकाल जैसा मांस-हीन तथा जिनकी दाढ़ी-मूंछ और जटा बढ़ी हुई है, उन शनिदेव को नमस्कार है। जिनके बड़े-बड़े नेत्र, पीठ में सटा हुआ पेट और भयानक आकार है, उन शनैश्चर देव को नमस्कार है॥२६

जिनके शरीर का ढांचा फैला हुआ है, जिनके रोएं बहुत मोटे हैं, जो लम्बे-चौड़े किन्तु सूके शरीर वाले हैं तथा जिनकी दाढ़ें कालरुप हैं, उन शनिदेव को बार-बार प्रणाम है॥२७

हे शने ! आपके नेत्र कोटर के समान गहरे हैं, आपकी ओर देखना कठिन है, आप घोर रौद्र, भीषण और विकराल हैं, आपको नमस्कार है॥२८

वलीमूख ! आप सब कुछ भक्षण करने वाले हैं, आपको नमस्कार है। सूर्यनन्दन ! भास्कर-पुत्र ! अभय देने वाले देवता ! आपको प्रणाम है॥२९

नीचे की ओर दृष्टि रखने वाले शनिदेव ! आपको नमस्कार है। संवर्तक ! आपको प्रणाम है। मन्दगति से चलने वाले शनैश्चर ! आपका प्रतीक तलवार के समान है, आपको पुनः-पुनः प्रणाम है॥३०

आपने तपस्या से अपनी देह को दग्ध कर लिया है, आप सदा योगाभ्यास में तत्पर, भूख से आतुर और अतृप्त रहते हैं। आपको सदा सर्वदा नमस्कार है॥३१

ज्ञाननेत्र ! आपको प्रणाम है। काश्यपनन्दन सूर्यपुत्र शनिदेव आपको नमस्कार है। आप सन्तुष्ट होने पर राज्य दे देते हैं और रुष्ट होने पर उसे तत्क्षण हर लेते हैं॥३२

देवता, असुर, मनुष्य, सिद्ध, विद्याधर और नाग- ये सब आपकी दृष्टि पड़ने पर समूल नष्ट हो जाते हैं॥३३

देव मुझ पर प्रसन्न होइए। मैं वर पाने के योग्य हूँ और आपकी शरण में आया हूँ॥३४



एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः।

अब्रवीच्च शनिर्वाक्यं हृष्टरोमा पार्थिवः॥३५

तुष्टोऽहं तव राजेन्द्र ! स्तोत्रेणाऽनेन सुव्रत।

एवं वरं प्रदास्यामि यत्ते मनसि वर्तते॥३६

राजा दशरथ के इस प्रकार प्रार्थना करने पर ग्रहों के राजा महाबलवान सूर्य-पुत्र शनैश्चर बोले- ‘उत्तम व्रत के पालक राजा दशरथ ! तुम्हारी इस स्तुति से मैं अत्यन्त सन्तुष्ट हूँ। रघुनन्दन ! तुम इच्छानुसार वर मांगो, मैं अवश्य दूंगा॥३५-३६

 

दशरथ उवाच-

प्रसन्नो यदि मे सौरे ! वरं देहि ममेप्सितम्।अद्य प्रभृति-पिंगाक्ष ! पीडा देया कस्यचित्॥३७प्रसादं कुरु मे सौरे ! वरोऽयं मे महेप्सितः।

राजा दशरथ बोले- ‘प्रभु ! आज से आप देवता, असुर, मनुष्य, पशु, पक्षी तथा नाग-किसी भी प्राणी को पीड़ा दें। बस यही मेरा प्रिय वर है॥३७

 

शनि उवाच-अदेयस्तु वरौऽस्माकं तुष्टोऽहं ददामि ते॥३८त्वयाप्रोक्तं मे स्तोत्रं ये पठिष्यन्ति मानवाः।देवऽसुर-मनुष्याश्च सिद्ध विद्याधरोरगा॥३९ तेषां बाधते पीडा मत्कृता वै कदाचन।मृत्युस्थाने चतुर्थे वा जन्म-व्यय-द्वितीयगे॥४०गोचरे जन्मकाले वा दशास्वन्तर्दशासु च।यः पठेद द्वि-त्रिसन्ध्यं वा शुचिर्भूत्वा समाहितः॥४१ तस्य जायते पीडा कृता वै ममनिश्चितम्।प्रतिमा लोहजां कृत्वा मम राजन चतुर्भुजाम्॥४२वरदां धनुः-शूल-बाणांकितकरां शुभाम्।आयुतमेकजप्यं तद्दशांशेन होमतः॥४३कृष्णैस्तिलैः शमीपत्रैर्धृत्वाक्तैर्नीलपंकजैः।पायससंशर्करायुक्तं घृतमिश्रं होमयेत्॥४४ब्राह्मणान्भोजयेत्तत्र स्वशक्तया घृत-पायसैः।तैले वा तेलराशौ वा प्रत्यक्ष यथाविधिः॥४५पूजनं चैव मन्त्रेण कुंकुमाद्यं लेपयेत्।नील्या वा कृष्णतुलसी शमीपत्रादिभिः शुभैः॥४६दद्यान्मे प्रीतये यस्तु कृष्णवस्त्रादिकं शुभम्।धेनुं वा वृषभं चापि सवत्सां पयस्विनीम्॥४७एवं विशेषपूजां मद्वारे कुरुते नृप !मन्त्रोद्धारविशेषेण स्तोत्रेणऽनेन पूजयेत्॥४८पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृताञ्जलिः।तस्य पीडां चैवऽहं करिष्यामि कदाचन्॥४९रक्षामि सततं तस्य पीडां चान्यग्रहस्य च।अनेनैव प्रकारेण पीडामुक्तं जगद्भवेत्॥५०

 

शनि ने कहा- ‘हे राजन ! यद्यपि ऐसा वर मैं किसी को देता नहीं हूँ, किन्तु सन्तुष्ट होने के कारण तुमको दे रहा हूँ। तुम्हारे द्वारा कहे गये इस स्तोत्र को जो मनुष्य, देव अथवा असुर, सिद्ध तथा विद्वान आदि पढ़ेंगे, उन्हें शनि बाधा नहीं होगी। जिनके गोचर में महादशा या अन्तर्दशा में अथवा लग्न स्थान, द्वितीय, चतुर्थ, अष्टम या द्वादश स्थान में शनि हो वे व्यक्ति यदि पवित्र होकर प्रातः, मध्याह्न और सायंकाल के समय इस स्तोत्र को ध्यान देकर पढ़ेंगे, उनको निश्चित रुप से मैं पीड़ित नहीं करुंगा॥३८-४१

 

हे राजन ! जिनको मेरी कृपा प्राप्त करनी है, उन्हें चाहिए कि वे मेरी एक लोहे की मीर्ति बनाएं, जिसकी चार भुजाएं हो और उनमें धनुष, भाला और बाण धारण किए हुए हो।* इसके पश्चात दस हजार की संख्या में इस स्तोत्र का जप करें, जप का दशांश हवन करे, जिसकी सामग्री काले तिल, शमी-पत्र, घी, नील कमल, खीर, चीनी मिलाकर बनाई जाए। इसके पश्चात घी तथा दूध से निर्मित पदार्थों से ब्राह्मणों को भोजन कराएं। उपरोक्त शनि की प्रतिमा को तिल के तेल या तिलों के ढेर में रखकर विधि-विधान-पूर्वक मन्त्र द्वारा पूजन करें, कुंकुम इत्यादि चढ़ाएं, नीली तथा काली तुलसी, शमी-पत्र मुझे प्रसन्न करने के लिए अर्पित करें।

 

काले रंग के वस्त्र, बैल, दूध देने वाली गाय- बछड़े सहित दान में दें। हे राजन ! जो मन्त्रोद्धारपूर्वक इस स्तोत्र से मेरी पूजा करता है, पूजा करके हाथ जोड़कर इस स्तोत्र का पाठ करता है, उसको मैं किसी प्रकार की पीड़ा नहीं होने दूंगा। इतना ही नहीं, अन्य ग्रहों की पीड़ा से भी मैं उसकी रक्षा करुंगा। इस तरह अनेकों प्रकार से मैं जगत को पीड़ा से मुक्त करता
http://www.gemsforeveryone.com/ 
https://www.facebook.com/gemsforeveryone/