नवग्रह ध्यानम्॥ श्री नवग्रह स्तोत्र,,नवग्रह देवता पूजन
रत्न परामर्श के लिए सम्पर्क करे ज्ञानचंद बूंदीवाल M.8275555557 ..
For more information visit
http://www.gemsforeveryone.com/
https://www.facebook.com/gemsforeveryone/
अथ सूर्यस्य ध्यानं - त्रिपुरासर्वस्वे प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम्। सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे॥
अथ चन्द्रस्य ध्यानं - निःसृतमागमे शङ्खप्रभमेणप्रियं शशाङ्कमीशानमौलिस्थितमीड्यवृत्तम्। तमीपतिं नीरजयुग्महस्तं ध्याये हृदब्जे शशिनं ग्रहेशम्॥
अथ भौमस्य ध्यानं - आगमामृतमञ्जर्याम् प्रतप्तगाङ्गेयनिभं ग्रहेशं सिंहासनस्थं कमलासिहस्तम्। सुरासुरैः पूजितपादपद्मं भौमं दयालुं हृदये स्मरामि॥
अथ सौम्यस्य ध्यानं - भैरवतन्त्रे सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दुरूपं ह्यसिपाशहस्तम्। दयानिधिं भूषणभूषिताङ्गं बुधं स्मरे मानसपङ्कजेऽहम्॥
अथ जीवस्य ध्यानं - भैरवतन्त्रे तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रज्येष्ठैः स्तुतपादपद्मम्। मेधानिधिं हस्तिगतं द्विबाहुं गुरुं स्मरे मानसपङ्कजेऽहम्॥
अथ शुक्रस्य ध्यानं - कुब्जिकासर्वस्वे सन्तप्तकाञ्चननिभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुहद्वन्द्वशूलम्। क्रौञ्चासनं ह्यसुरसेवितपादपद्मं शुक्रं स्मरे द्विनयनं हृदि पङ्कजेऽहम्॥
अथ शनेर्ध्यानं - शुभदमागमामृते नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम्। सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम्॥
अथ सैंहिकेयस्य ध्यानं - वामकेश्वर तन्त्रे शीतांशुमित्रान्तकमीड्यरूपं घोरं च वैडुर्यनिभं विबाहुम्। त्रैलोक्यरक्षाप्रदंमिष्टदं च राहुं ग्रहेन्द्रं हृदये स्मरामि॥
अथ केतोश्च ध्यानं - तन्त्रसागरे लाङ्गुलयुक्तं भयदं जनानां कृष्णाम्बुभृत्सन्निभमेकवीरम्। कृष्णाम्बरं शक्तित्रिशूलहस्तं केतुं भजे मानसपङ्कजेऽहम्॥
॥ इति नवग्रहध्यानं सम्पूर्णम्॥
॥ नवग्रहमन्त्रः॥
श्रीगणेशाय नमः।
अथ सूर्यस्य मन्त्रः - विश्वनाथसारोद्धारे ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा॥
अथ चन्द्रस्य मन्त्रः - कालीपटले ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः॥
अथ भौमस्य मन्त्रः - शारदाटीकायाम् ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा॥
अथ बुधस्य मन्त्रः - स्वतन्त्रे ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा॥
अथ जीवस्य मन्त्रः - त्रिपुरातिलके ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा॥
अथ शुक्रस्य मन्त्रः - आगमशिरोमणौ ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः॥
अथ शनैश्चरस्य मन्त्रः - आगमलहर्याम् ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा॥
अथ राहोर्मन्त्रः - आगमलहर्याम् ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा॥
अथ केतु मन्त्रः - मन्त्रमुक्तावल्याम् ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥
॥ इति नवग्रहमन्त्रः सम्पूर्णम्॥
॥श्रीनवग्रहस्तोत्र॥
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥ १॥
दधिशङ्खतुषाराभं क्शीरोदार्णवसंभवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥ २॥
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्॥ ३॥
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥ ४॥
देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥ ५॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥ ६॥
नीलांजनसमाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्डसंभूतं तं नमामि शनैश्चरम्॥ ७॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥ ८॥
लाशपुष्पसंकाशं तारकाग्रहमस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥ ९॥
इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः। दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥ १०॥
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्। ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्॥
गृहनक्शत्रजाः पीडास्तस्कराग्निसमुद्भवाः। ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥
॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम्॥
नवग्रह अष्ट एवं चतुर्दल देवता पूजन
॥ नवग्रह देवता पूजन॥
आकृष्णेनाङ्गीरसो हिरण्यस्तुपः सविता त्रिष्टुप् सुर्यावाहने विनियोगः॥ हिरण्ययेन सवितारतेन् देवो याति भुवनानि पश्यन् सूर्याय नमः। सूर्यं आवाहयामि॥ आप्यायस्वेति गौतमः सोमो गायत्रि चन्द्रावाहने विनियोगः॥ ॐ आप्यायस्वसमेतुते विश्वतः सोमवृष्णं भववाजस्यसन्घदे संघदे चंद्राय नमः। चन्द्रं आवाहयामि॥ अग्नि मूर्ध विरूपाङ्गारको गायत्रि अङ्गारकावाहने विनियोगः॥ ॐ अग्निमूर्धादिवः ककुथ्पतिः प्रतिव्यायं आपां रेतांसि जिंवति अङ्गारकाय नमः। अंगारकं आवाहयामि॥ उद्भुद्दद्वं सौम्यो बुधः त्रिष्टुप् बुधावाहने विनियोगः॥ ॐ उद्भुद्दद्वं समनसः सखायः समग्नि विंद्वं बहवः सनीलः दधिक्रामग्नि मशसंच देवीमिंद्रवतो वसनिह्वयेवः बुधाय नमः। बुधं आवाहयामि॥ बृहस्पते घृत्समधो बृहस्पतित्रिष्टुप् बृहस्पत्यावाहने विनियोगः॥ बृहस्पते अथियदर्यो अर्हाद्युमद्विभाति कृतुमज्जनेषु यद्धिदयश्चवास रत प्रजाततदस्मासुद्रविणं देहि चित्रं बृहस्पतये नमः। बृहस्पतिं आवाहयामि॥ शुक्रांते भारद्वाजः शुक्रः त्रिष्टुप् शुक्रावाहने विनियोगः॥ ॐ शुक्रांते अन्यद्य जतन्ते अन्यद्विशुरुषे अहनि दौरिवासि विश्वहिमाया अवसि स्वाध्वो भद्रते पूशन्निहिरातिरस्तु शुक्राय नमः। शुक्रं आवाहयामि॥ शमग्निरिरिंबिरः शनैश्चर उष्णिक् कन्यावाहाने विनियोगः॥ ॐ शमग्निराग्निभिः करश्चन्न तपतु सूर्यः शंवातो वात्वरपा अपसृधः शनैश्चराय नमः। शनैश्चरं आवाहयामि॥ कयानो वामदेवो राहुर्गयत्रि राह्वाहने विनियोगः॥ ॐ कयानाशित्र आभूव दूथि सदावृधः सखा कयाशचिष्टया वृथा राहवे नमः। राहुं आवाहयामि॥ केतुं कृण्वन् मधुश्चंदः केतुर्गायत्रि केत्वावाहने विनियोगः॥ ॐ केतु कृण्वन् केतवे पेशोमर्य आपेशसे समुषड्भिरजायतः केतवे नमः। केतुं आवाहयामि॥॥ अष्टदल देवता पूजन॥ ॐ इंद्राय नमः। अग्नये नमः। यमाय नमः। नैऋतये नमः। वरुणाय नमः। वायवे नमः। सोमाय नमः। ईशानाय नमः।॥ चतुर्दल देवता॥ ॐ गणपतये नमः। ॐ दुर्गायै नमः। ॐ क्षेत्रपालाय नमः। ॐ वसोष्पतये नमः। रव्यादि नवग्रह अष्टदल चतुर्दलेषु स्थित सर्वदेवताभ्यो नमः॥ ध्यायामि ध्यानं समर्पयामि। आवाहनं समर्पयामि। आसनं समर्पयामि। पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनं समर्पयामि। स्नानं समर्पयामि। वस्त्रं समर्पयामि। यज्ञोपवीतं समर्पयामि। गंधं धूपं दीपं समर्पयामि। नैवेद्यं समर्पयामि। मन्त्रपुष्पं समर्पयामि। सकल पूजार्थे अक्षतान् समर्पयामि॥ यस्य स्मृत्याच नाम्नोक्त्या तपः पूजा क्रियादिषु। नूनं संपूर्णतां यादि सद्यो वंदे तमच्युतं॥

No comments:
Post a Comment